Bala Krishna Ashtakam बालकृष्ण अष्टकम्श्रीमन्नन्दयशोदा हृदयस्थित भावतत्परो भगवान् ।पुत्रीकृत निजरूपः स जयति पुरतः कृपालुर्बालकृष्णः ॥ १॥कथमपि रिङ्गणम करोद ङ्गणगतजानु घर्षणोद्युक्तः ।कटितटकिङ्किणि जालस्वन शङ्कितमानसः सदा ह्यास्ते ॥ २॥विकसितपङ्कज नयनः प्रकटित हर्षः सदैव धूसराङ्गः । ... Show more